Verse 2
ContentsText
अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।
वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् ।
अधश्चोर्ध्वं च तिर्यक्चाहम् ।
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ।
अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं
दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥ २॥
Transliteration
ahaṃ pañcabhūtānyapañcabhūtāni | ahamakhilaṃ jagat |
vedo'hamavedo'ham | vidyāhamavidyāham | ajāhamanajāham |
adhaścordhvaṃ ca tiryakcāham |
ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ |
ahaṃ mitrāvaruṇāvubhau bibharmyahamindrāgnī ahamaśvināvubhau |
ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmyaham |
viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi | ahaṃ
dadhāmi draviṇaṃ haviṣmate suprāvye 3 yajamānāya sunvate || 2||