Passage 2.1
ContentsText
अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः
पप्रच्छुर्भो भगवन्संन्यासविधिं नो ब्रूहीति
तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव
ज्ञातुमुचितमित्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह
सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनं
नत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य
नारदः पितामहमुवाच गुरुस्त्वं जनकस्त्वं सर्वविद्या-
रहसज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकं
वक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः ।
किमितिचेत्पारिव्राज्यस्वरूपक्रमं नो ब्रूहीति नारदेन
प्रार्थितः परमेष्ठि सर्वतः सर्वानवलोक्य मुहूर्तमात्रं
समाधिनिष्ठो भूत्वा संसारातिनिवृत्यन्वेषण इति
निश्चित्य नारदमवलोक्य तमाह पितामहः ।
पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं
निरतिशयाकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं
ते विविच्योच्यते तत्क्रममतिरहस्यं बाढमवहितो भूत्वा
श्रूयतां भो नारद विधिवदादावनुपनीतोपनयानन्तरं
तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र
सत्सम्प्रदायस्थं श्रद्धावन्तं सत्कुलभवं श्रोत्रियं
शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्य नत्वा
यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य
द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा
तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य
पञ्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया
गृहस्थोचितकर्म कुर्वन्दौर्ब्राह्मण्यनिवृत्तिमेत्य
स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचित-
पञ्चविंशतिवत्सरं तीर्त्वा ततः पञ्चचिंशतिवत्सरपर्यन्तं
त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थकालमेकवारमाहार-
माहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसञ्चारं
विहाय निकारविरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य
दृष्टश्रवणविषयवैतृष्ण्यमेत्य चत्वारिंशत्संकार-
सम्पन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहङ्कारं
दग्ध्वा साधनचतुष्टयसम्पन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥
Transliteration
atha hainaṃ bhagavantaṃ nāradaṃ sarve śaunakādayaḥ
papracchurbho bhagavansaṃnyāsavidhiṃ no brūhīti
tānavalokya nāradastatsvarūpaṃ sarvaṃ pitāmahamukhenaiva
jñātumucitamityuktvā satrayāgapūrtyanantaraṃ taiḥ saha
satyalokaṃ gatvā vidhivadbrahmaniṣṭhāparaṃ parameṣṭhinaṃ
natvā stutvā yathocitaṃ tadājñayā taiḥ sahopaviśya
nāradaḥ pitāmahamuvāca gurustvaṃ janakastvaṃ sarvavidyārahasajñaḥ sarvajñastvamato matto madiṣṭaṃ rahasyamekaṃ
vaktavyaṃ tvadvinā madabhimatarahasyaṃ vaktuṃ kaḥ samarthaḥ |
kimiticetpārivrājyasvarūpakramaṃ no brūhīti nāradena
prārthitaḥ parameṣṭhi sarvataḥ sarvānavalokya muhūrtamātraṃ
samādhiniṣṭho bhūtvā saṃsārātinivṛtyanveṣaṇa iti
niścitya nāradamavalokya tamāha pitāmahaḥ |
purā matputra puruṣasūktopaniṣadrahasyaprakāraṃ
niratiśayākārāvalambinā virāṭpuruṣeṇopadiṣṭaṃ rahasyaṃ
te vivicyocyate tatkramamatirahasyaṃ bāḍhamavahito bhūtvā
śrūyatāṃ bho nārada vidhivadādāvanupanītopanayānantaraṃ
tatsatkulaprasūtaḥ pitṛmātṛvidheyaḥ pitṛsamīpādanyatra
satsampradāyasthaṃ śraddhāvantaṃ satkulabhavaṃ śrotriyaṃ
śāstravātsalyaṃ guṇavantamakuṭilaṃ sadgurumāsādya natvā
yathopayogaśuśrūṣāpūrvakaṃ svābhimataṃ vijñāpya
dvādaśavarṣasevāpuraḥsaraṃ sarvavidyābhyāsaṃ kṛtvā
tadanujñayā svakulānurūpāmabhimatakanyāṃ vivāhya
pañcaviṃśativatsaraṃ gurukulavāsaṃ kṛtvātha gurvanujñayā
gṛhasthocitakarma kurvandaurbrāhmaṇyanivṛttimetya