Passage 4.38
ContentsText
अथ नारदः पितामहं संन्यासविधिं नो ब्रूहीति पप्रच्छ ।
पितामहस्तथेत्यङ्गीकृत्यातुरे वा क्रमे वापि
तुरीयाश्रमस्वीकारारार्थं कृच्छ्रप्रायश्चित्त-
पूर्वकमष्टश्राद्धं कुर्याद्देवर्षिदिव्यमनुष्य-
भूतपितृमात्रात्मेत्यष्टश्राद्धानि कुर्यात् ।
प्रथमं सत्यवसुसंज्ञकान्विश्वान्देवान्देवश्राद्धे
ब्रह्मविष्णुमहेश्वरानृषिश्राद्धे देवर्षिक्षत्रियर्षि-
मनुष्यर्षीन् दिव्यश्राद्धे वसुरुद्रादुत्यरूपान्मनुष्यश्राद्धे सनकसनन्दनसनत्कुमारसनत्सुजातान्भूतश्राद्धे
मातृपितामहीप्रपितामहीरात्मश्राद्धे
आत्मपितृपितामहाञ्जीवत्पितृकश्चेत्पितरं त्यक्त्वा
आत्मपितामहप्रपितामहानिति सर्वत्र युग्मक्लृप्त्या
ब्राह्मणानर्चयेदेकाध्वरपक्षेऽष्टाध्वरपक्षे वा स्वशाखानुगतमन्त्रैरष्टश्राद्धान्यष्टदिनेषु वा
एकदिने वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य
मुक्त्यन्तं यथाविधि निर्वर्त्य पिण्डप्रदानानि निर्वर्त्य
दक्षिणातांबूलैस्तोषयित्वा ब्राह्मणन्प्रेषयित्वा
शेषकर्मसिद्ध्यर्थं सप्तकेशान्विसृज्य
--'शेषकर्मप्रसिद्ध्यर्थं केशान्सप्ताष्ट वा द्विजः ।
संक्षिप्य वापयेत्पूर्वं केशश्मश्रुनखानि चे'ति
सप्तकेशान्संरक्ष्य कक्षोपस्थवर्जं क्षौरपूर्वकं
स्नात्वा सायंसन्ध्यावन्दनं निर्वर्त्य सहस्रगायत्रीं
जप्त्वा ब्रह्मयज्ञं निर्वर्त्य स्वाधीनाग्निमुपस्थाप्य
स्वशाखोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुति-
माज्यभागान्तं हुत्वाहुतिविधि,न् समाप्यात्मादिभिस्त्रिवारं
सक्तुप्राशनं कृत्वाचमनपूर्वकमग्निं संरक्ष्य
स्वयमग्नेरुत्तरतः कृष्णजिनोपरि स्थित्वा पुराणश्रवणपूर्वकं
जागरणं कृत्वा चतुर्थयामान्ते स्नात्वा तदग्नौ चरुं
श्रपयित्वा पुरुषसूक्तेनान्नस्य षोडशाहुतिर्हुत्वा
विरजाहोमं कृत्वा अथाचम्य सदक्षिणं वस्त्रं सुवर्णपात्रं
धेनुं दत्वा समाप्य ब्रह्मोद्वासनं कृत्वा ।
संमासिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः ।
संमायमग्निः सिञ्चत्वायुषा च धनेन च
बलेन चायुष्मन्तः करोतु मेति ।
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानम् ।
अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि ।
यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव
आजायमानः स क्षय एधीत्यनेनाग्निमात्मन्यारोप्य
ध्यात्वाग्निं प्रदक्षिणनमस्कारपूर्वकमुद्वास्य
प्रातःसन्ध्यामुपास्य सहस्रगायत्रीपूर्वकं
सूर्योपस्थानं कृत्वा नाभिदघ्नोदकमुपविश्य
अष्टदिक्पालकार्घ्यपूर्वकं गायत्र्युद्वासनं
कृत्वा सावित्रीं व्याहृतिषु प्रवेशयित्वा ।
अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि ।
द्रविणं मे सवर्चसं सुमेधा अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ।
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योध्यमृतात्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरि विश्रवम् । ब्रह्मणः कोशोऽसि मेधयापिहितः ।
श्रुतं मे गोपाय । दारेषणायाश्च वित्तेषणायाश्च
लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यस्तं मया
ॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मया
ॐ भूर्भुवःसुवः संन्यस्तं मयेति मन्द्रमध्यमतालज-
ध्वनिभिर्मनसा वाचोच्चार्याभयं सर्वभूतेभ्यो
मत्तः सर्वं प्रवर्तते स्वहेत्यनेन जलं प्राश्य प्राच्यां दिशि
पूर्णाञ्जलिं प्रक्षिप्योंस्वाहेति शिखामुत्पाठ्य ।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च्य शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।
यज्ञोपवीत बहिर्न निवसेत्त्वमन्तः प्रविश्य मध्ये ह्यजस्रं
परमं पवित्रं यशो बलं ज्ञानवैराग्यं मेधां प्रयच्छेति
यज्ञोपवीतं छित्त्वा उदकाञ्जलिना सह ॐ भूः समुद्रं गच्छ
स्वाहेत्यप्सु जुहुयादों भूः संन्यस्तं मया ॐ भुवः संन्यस्तं मया
ॐ सुवः संन्यस्तं मयेति त्रिरुक्त्वा त्रिवारमभिमन्त्र्य तज्जलं
प्राश्याचम्य ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य
सर्वकर्मनिर्वर्तकोऽहमिति स्मृत्वा जातरूपधरो भूत्वा
स्वरूपानुसन्धानपूर्वकमूर्ध्वबाहुरुदीचीं
गच्छेत्पूर्ववद्विद्वत्संन्यासी चेद्गुरोः सकाशात्प्रणव-
महावाक्योपदेशं प्राप्य यथासुखं विहरन्मत्तः कश्चिन्नान्यो
व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवालयेषु
संचरेत्संन्यस्याथ दिगंबरः सकलसंचारकः
सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूरलाभः
प्राणायामपरायणः फलरसत्वक्पत्रमूलोदकैर्मोक्षार्थी
गिरिकन्दरेषु विसृजेद्देहं स्मरंस्तारकम् ।
विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभिर्विप्रैस्तिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृहाण प्रणव महावाक्यग्रहणार्थं
गुरुनिकटमागच्छेत्याचार्यैर्दण्डकटिसूत्रकौपीनं
शाटीमेकां कमण्डलुं पादादिमस्तकप्रमाणमव्रणं
समं सौम्यमकाकपृष्ठं सलक्षणं वैणवं
दण्डमेकमाचमनपूर्वकं सखा मा गोपायौजः
सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रग्नः शर्म मे भव
यत्पापं तन्निवारयेति दण्डं परिग्रहेज्जगज्जीवनं
जीवनाधारभूतं मा ते मा मन्त्रयस्व सर्वदा
सर्वसौम्येति प्रणवपूर्वकं कमण्डलुं परिग्रह्य
कौपीनाधारं कटिसूत्रमोमिति गुह्याच्छादकं
कौपीनमोमिति शीतवातोष्णत्राणकरं देहैकरक्षणमोमिति
कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो
भूत्वा कृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥
Transliteration
atha nāradaḥ pitāmahaṃ saṃnyāsavidhiṃ no brūhīti papraccha |
pitāmahastathetyaṅgīkṛtyāture vā krame vāpi
turīyāśramasvīkārārārthaṃ kṛcchraprāyaścittapūrvakamaṣṭaśrāddhaṃ kuryāddevarṣidivyamanuṣyabhūtapitṛmātrātmetyaṣṭaśrāddhāni kuryāt |
prathamaṃ satyavasusaṃjñakānviśvāndevāndevaśrāddhe
brahmaviṣṇumaheśvarānṛṣiśrāddhe devarṣikṣatriyarṣimanuṣyarṣīn divyaśrāddhe vasurudrādutyarūpānmanuṣyaśrāddhe sanakasanandanasanatkumārasanatsujātānbhūtaśrāddhe
mātṛpitāmahīprapitāmahīrātmaśrāddhe
ātmapitṛpitāmahāñjīvatpitṛkaścetpitaraṃ tyaktvā
ātmapitāmahaprapitāmahāniti sarvatra yugmaklṛptyā
brāhmaṇānarcayedekādhvarapakṣe'ṣṭādhvarapakṣe vā svaśākhānugatamantrairaṣṭaśrāddhānyaṣṭadineṣu vā
ekadine vā pitṛyāgoktavidhānena brāhmaṇānabhyarcya
muktyantaṃ yathāvidhi nirvartya piṇḍapradānāni nirvartya
dakṣiṇātāṃbūlaistoṣayitvā brāhmaṇanpreṣayitvā
śeṣakarmasiddhyarthaṃ saptakeśānvisṛjya
--‘śeṣakarmaprasiddhyarthaṃ keśānsaptāṣṭa vā dvijaḥ |
saṃkṣipya vāpayetpūrvaṃ keśaśmaśrunakhāni ce’ti
saptakeśānsaṃrakṣya kakṣopasthavarjaṃ kṣaurapūrvakaṃ
snātvā sāyaṃsandhyāvandanaṃ nirvartya sahasragāyatrīṃ
japtvā brahmayajñaṃ nirvartya svādhīnāgnimupasthāpya
svaśākhopasaṃharaṇaṃ kṛtvā taduktaprakāreṇājyāhutimājyabhāgāntaṃ hutvāhutividhi,n samāpyātmādibhistrivāraṃ
saktuprāśanaṃ kṛtvācamanapūrvakamagniṃ saṃrakṣya
svayamagneruttarataḥ kṛṣṇajinopari sthitvā purāṇaśravaṇapūrvakaṃ
jāgaraṇaṃ kṛtvā caturthayāmānte snātvā tadagnau caruṃ
śrapayitvā puruṣasūktenānnasya ṣoḍaśāhutirhutvā