Passage 5.1
ContentsText
अथ हैनं पितामहं नारदः पप्रच्छ
भगवन्सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः
पुनः स्वाश्रमाचारपरो भवेदित्युच्यते ।
ततः पितामह उवाच ।
शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः
सन्ति तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः
पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव
चेद्भगवन्संन्यासाः कतिभेदास्तदनुष्ठानभेदाः
कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति ।
तथेत्यङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदज़्
कथमिति चेत्तत्त्वतस्त्वेक एव संन्यासः अज्ञानेनाशक्तिवशा-
त्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो
ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति
चातुर्विध्यमुपागतस्तद्यथेति दुष्टमदनाभाच्चेति
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः
स वैराग्यसंन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव-
श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहङ्कारा-
भिमानात्मकसर्वसंसारं निर्वृत्य दारेषणाधनेषणा-
लोकेषणात्मकदेहवासनां शास्त्रवासनां लोकवासनां
त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा
साधनचतुष्टयसम्पन्नो यः संन्यसति स एव ज्ञानसंन्यासी ।
क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां
स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी ।
ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य
वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः
संन्यस्यति स कर्मसंन्यासी ।
ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो
वैराग्यसंन्यासी ।
विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी
कर्मसंन्यासी ।
कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति ।
निमित्तस्त्वातुरः । अनिमित्तः क्रमसंन्यासः ।
आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः
स निमित्तसंन्यासः ।
दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं
सर्वं हेयं प्राप्य ।
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिधिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति
स संन्यासोऽनिमित्तसंन्यासः ।
संन्यासः षड्विधो भवति ।
कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति ।
कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः ।
बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो
मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी
असंक्लृप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी ।
परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेश्वेकरात्रान्नादनपरः
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो
वा भस्मोद्धूलनपरः सर्वत्यागी ।
तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो
दिगंबरः कुणपवच्छरीरवृत्तिकः ।
अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णेष्वजगर-
वृत्त्याहारपरः स्वरूपानुसन्धानपरः ।
आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः
कुटीचकबहूदकहंसानां ब्रह्मच-
र्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां
संन्यासविधिः ।
परमहंसादित्रयाणां न कटीसूत्रं न कौपीनं
न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक-
भैक्षाटनपरत्वं जातरूपधरत्वं विधिः ।
संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य
तदनन्तरं कटीसूत्रं कौपीनं दण्डं वस्त्रं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न
कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं
न तर्कं पठेन्न शब्दमपि बृहच्छब्दान्नाध्यापयेन्न
महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं
नान्यस्माद्वा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं
न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्तिः ।
पुनर्यतिविशेषः ।
कुटीचस्यैकत्र भिक्षा बहूदकस्यासंक्लृप्तं
माधुकरं हंसस्याष्टगृहेष्वष्टकवलं
परमहंसस्य पञ्चगृहेषु करपात्रं
फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः
सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्न कस्यापि
नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः
स ज्येष्ठोऽपि कनिष्ठो हस्ताभ्यां नद्युत्तरणं
न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न
क्रयविक्रयपरो न किञ्चिद्विनिमयपरो न दाम्भिको
नानृतवादी न यतेः किंचित्कर्तव्यमस्त्यस्तिचेत्सांकर्यम् ।
तस्मान्मननादौ संन्यासिनामधिकारः ।
आतुरकुटीचकयोर्भूर्लोको बहूदकस्य
स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य
सत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव
कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ।
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेव समाप्नोति नान्यथा श्रुतिशासनम् ।
तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपरो
न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञान-
वैराग्यसम्पन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति-
स्तदाचारः । जाग्रत्स्वप्नसुषुप्तेष्वेकशरीरस्य जाग्रत्काले
विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः
अवस्थाभेदादवस्थेश्वरभेदः कार्यभेदात्कारणभेदस्तासु
चतुर्दशकारणानां बाह्यवृत्तयोऽतर्वृतयस्तेषा-
मुपादानकारणम् ।
वृत्तयश्चत्वारः मनोबुद्धिरहङ्कारश्चित्तं चेति ।
तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः ।
नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ।
तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न
इव यद्यच्छृतं यद्यदृष्टं तत्सत्सर्वमविज्ञातमिव
यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति ।
स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव
मुक्तिरिति । भिक्षुर्नैहिकामुष्मिकापेक्षः । यद्यपेक्षास्ति
तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्रा-
भ्यासैरुष्ट्रकुङ्कुमभारवद्व्यर्थो न योगशास्त्र-
प्रवृत्तिर्न साङ्ख्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः ।
इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालङ्कारवच्चर्मकारव-
दतिविदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म
करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदतः सर्वं परित्यज्य
तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा
परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा न
काङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति ।
तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः ।
भिक्षामात्रेण जीवि स्यात्स यतिर्यतिवृत्तिहा ॥ १॥
Transliteration
atha hainaṃ pitāmahaṃ nāradaḥ papraccha
bhagavansarvakarmanivartakaḥ saṃnyāsa iti tvayaivoktaḥ
punaḥ svāśramācāraparo bhavedityucyate |
tataḥ pitāmaha uvāca |
śarīrasya dehino jāgratsvapnasuṣuptiturīyāvasthāḥ
santi tadadhīnāḥ karmajñānavairāgyapravartakāḥ
puruṣā jantavastadanukūlācārāḥ santi tathaiva
cedbhagavansaṃnyāsāḥ katibhedāstadanuṣṭhānabhedāḥ
kīdṛśāstattvato'smākaṃ vaktumarhasīti |
tathetyaṅgīkṛtya tu pitāmahena saṃnyāsabhedairācārabhedaḥ
kathamiti cettattvatastveka eva saṃnyāsaḥ ajñānenāśaktivaśātkarmalopaśca traividhyametya vairāgyasaṃnyāso
jñānavairāgyasaṃnyāsaḥ karmasaṃnyāsaśceti
cāturvidhyamupāgatastadyatheti duṣṭamadanābhācceti
viṣayavaitṛṣṇyametya prākpuṇyakarmavaśātsaṃnyastaḥ
sa vairāgyasaṃnyāsī śāstrajñānātpāpapuṇyalokānubhavaśravaṇātprapañcoparataḥ krodherṣyāsūyāhaṅkārābhimānātmakasarvasaṃsāraṃ nirvṛtya dāreṣaṇādhaneṣaṇālokeṣaṇātmakadehavāsanāṃ śāstravāsanāṃ lokavāsanāṃ
tyaktvā vamanānnamiva prakṛtīyaṃ sarvamidaṃ heyaṃ matvā
sādhanacatuṣṭayasampanno yaḥ saṃnyasati sa eva jñānasaṃnyāsī |
krameṇa sarvamabhyasya sarvamanubhūya jñānavairāgyābhyāṃ
svarūpānusandhānena dehamātrāvaśiṣṭaḥ saṃnyasya
jātarūpadharo bhavati sa jñānavairāgyasaṃnyāsī |
brahmacaryaṃ samāpya gṛhī bhūtvā vānaprasthāśramametya
vairāgyabhāve'pyāśramakramānusāreṇa yaḥ
saṃnyasyati sa karmasaṃnyāsī |
brahmacaryeṇa saṃnyasya saṃnyāsājjātarūpadharo