Passage 7.1
ContentsText
अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः
पुरस्कृत्य विरक्तः सन्यो वर्षासु ध्रुवशीलोऽष्टौ
मास्येकाकी चरन्नेकत्र निवसेद्भिक्षुर्भयात्सारङ्गवदेकत्र
न तिष्ठेस्वगमननिरोधग्रहणं न कुर्याद्धस्ताभ्यां
नद्युत्तरणं न कुर्यान्न वृक्षारोहणमपि न
देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्यदेवार्चनं
कुर्यात्स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमहारन्कृशो
भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेदेकत्रान्नं
पललमिव गन्धलेपनमशुद्धिलेपनमैव क्षारमन्त्यजमिव
वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं
चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिव
सभास्थलं स्मशानस्थलमिव राजधानीं कुम्भीपाकमिव
शवपिण्डवदेकत्रान्नं न देहान्तरदर्शनं प्रपञ्चवृत्तिं
परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय
विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मर-
न्स्वशरीराभिमानदेशविस्मरणं मत्वा शवमिव हेयमुपगम्य
कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवस्थलं
विहाय दूरतो वसेत् ।
अयत्नेन प्राप्तमाहरन्ब्रह्मप्रणवध्यानानुसन्धानपरो
भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोधलोभमोहमद-
मात्सर्यादिकं दग्ध्वा त्रिगुणातीतः षडूर्मिरहितः
षड्भावविकारशून्यः । सत्यवाक्छुचिरद्रोही ग्राम
एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे
पञ्चरात्रमनिकेतः स्थिरमतिर्नानृतवादी गिरिकन्दरेषु
वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतुर्भि-
र्ग्राममित्येकश्चरेत् । भिक्षुश्चतुर्दशकरणानां
न तत्रावकाशं दद्यादविच्छिन्नज्ञानाद्वैराग्यसम्पत्ति-
मनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य
सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्ध-
प्रतिभासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा
देहपतनपर्यन्तं स्वरूपानुसन्धानेन वसेत् ।
त्रिषवणस्नानं कुटीचकस्य बहूदकस्य द्विवारं
हंसस्यैकवारं परमहंसस्य मानसस्नानं
तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानं
ऊर्ध्वपुण्ड्रं कुटीचकस्य त्रिपुण्ड्रं बहूदकस्य
ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं हंसस्य भस्मोद्धूलनं
परमहंसस्य तुरीयातीतस्य तिलकपुण्ड्रमवधूतस्य न
किञ्चित् । तुरीयातीतावधूतयोः ऋतुक्षौरं कुटीचकस्य
ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य
परमहंसस्य च न क्षौरम् । अस्तिचेदयनक्षौरम् ।
तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्नं
माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं
तुरीयातीतस्य गोमुखं अवधूतस्याजगरवृत्तिः । शाटिद्वयं
कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं
दिगंबरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयो-
र्जातरूपधरत्वं हंसपरमहंसयोरजिनं न त्वन्येषाम् ।
कुटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयो-
र्मानसार्चनं तुरीयातीतावधूतयोः सोहंभावना ।
कुटीचकबहूदकयोर्मन्त्रजपाधिकारो हंसपरमहंसयो-
र्ध्यानाधिकारस्तुरीयातीतावधूतयोर्न त्वन्याधिकार-
स्तुरीयातीतावधूतयोर्महावाक्योपदेशाधिकारः
परमहंसस्यापि । कुटीचकबहूदकहंसानां
नान्यस्योपदेशाधिकारः। कुटीचकबहूदकयोर्मानुषप्रणवः
हंसपरमहंसयोरान्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः ।
कुटीचकबहूदकयोः श्रवणं हंसपरमहंसयोर्मननं
तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मनुसन्धानं
विधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मर-
ञ्जीवन्मुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपाय-
मन्विष्येद्यतिरित्युपनिषत् ॥
Transliteration
atha yaterniyamaḥ kathamiti pṛṣṭaṃ nāradaṃ pitāmahaḥ
puraskṛtya viraktaḥ sanyo varṣāsu dhruvaśīlo'ṣṭau
māsyekākī carannekatra nivasedbhikṣurbhayātsāraṅgavadekatra
na tiṣṭhesvagamananirodhagrahaṇaṃ na kuryāddhastābhyāṃ
nadyuttaraṇaṃ na kuryānna vṛkṣārohaṇamapi na
devotsavadarśanaṃ kuryānnaikatrāśī na bāhyadevārcanaṃ
kuryātsvavyatiriktaṃ sarvaṃ tyaktvā madhukaravṛttyāhāramahārankṛśo
bhūtvā medovṛddhimakurvannājyaṃ rudhiramiva tyajedekatrānnaṃ
palalamiva gandhalepanamaśuddhilepanamaiva kṣāramantyajamiva
vastramucchiṣṭapātramivābhyaṅgaṃ strīsaṅgamiva
mitrāhlādakaṃ mūtramiva spṛhāṃ gomāṃsamiva jñātacaradeśaṃ
caṇḍālavāṭikāmiva striyamahimiva suvarṇaṃ kālakūṭamiva
sabhāsthalaṃ smaśānasthalamiva rājadhānīṃ kumbhīpākamiva
śavapiṇḍavadekatrānnaṃ na dehāntaradarśanaṃ prapañcavṛttiṃ
parityajya svadeśamutsṛjya jñātacaradeśaṃ vihāya
vismṛtapadārthaṃ punaḥ prāptaharṣa iva svamānandamanusmaransvaśarīrābhimānadeśavismaraṇaṃ matvā śavamiva heyamupagamya
kārāgṛhavinirmuktacoravatputrāptabandhubhavasthalaṃ
vihāya dūrato vaset |
ayatnena prāptamāharanbrahmapraṇavadhyānānusandhānaparo
bhūtvā sarvakarmanirmuktaḥ kāmakrodhalobhamohamadamātsaryādikaṃ dagdhvā triguṇātītaḥ ṣaḍūrmirahitaḥ
ṣaḍbhāvavikāraśūnyaḥ | satyavākchuciradrohī grāma
ekarātraṃ pattane pañcarātraṃ kṣetre pañcarātraṃ tīrthe
pañcarātramaniketaḥ sthiramatirnānṛtavādī girikandareṣu
vasedeka eva dvau vā caret grāmaṃ tribhirnagaraṃ caturbhirgrāmamityekaścaret | bhikṣuścaturdaśakaraṇānāṃ