Passage 1
ContentsText
अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य
द्वादशवर्शशुश्रूषापूर्वकं
परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ । स होवाच
याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् ।
तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं
सनातनमेकमेवाद्वितीयं ब्रह्म ।
तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ
जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी
गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं
यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य
सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः सर्वज्ञः
सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति ।
स्वस्मिन्विलीनं सकलं जगदाविर्भावयति ।
प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः
प्राणिकर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं
सङ्कोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो
रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी
स्पष्टास्पष्टवपुर्भवति ।
हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा
स्थूलशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्विराटचैतन्यमासीत् । स तदभिमानी स्पष्टवपुः
सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति ।
तस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः
। अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि
त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय
सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत ।
सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय
पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा
संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि
तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् । स
पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा
भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् । स तेषां
तुर्यभागेन कर्मेन्द्रियाण्यसृजत् । स तेषां सत्त्वांशं
चतुर्धा कृत्वा भागत्रयसमष्टितः
पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां
सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित
इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत्
। तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् ।
तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् ।
हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि
तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि
चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि
समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा
जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशो
मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो
जीवत्वमगमत् ।
शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो
घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन
परिभ्रमतीति ॥
Transliteration
atha ha paiṅgalo yājñavalkyamupasametya
dvādaśavarṣaśuśrūṣāpūrvakaṃ
paramarahasyakaivalyamanubrūhīti papraccha | sa hovāca
yājñavalkyaḥ sadeva somyedamagra āsīt |
tannityamuktamavikriyaṃ satyajñānānandaṃ paripūrṇaṃ
sanātanamekamevādvitīyaṃ brahma |
tasminmaruśuktikāsthāṇusphaṭikādau
jalaraupyapuruṣarekhādivallohitaśuklakṛṣṇaguṇamayī
guṇasāmyānirvācyā mūlaprakṛtirāsīt | tatpratibimbitaṃ
yattatsākṣicaitanyamāsīt | sā punarvikṛtiṃ prāpya
sattvodriktā'vyaktākhyāvaraṇaśaktirāsīt | tatpratibimbitaṃ
yattadīśvaracaitanyamāsīt | sa svādhīnamāyaḥ sarvajñaḥ
sṛṣṭisthitilayānāmādikartā jagadaṅkurarūpo bhavati |
svasminvilīnaṃ sakalaṃ jagadāvirbhāvayati |
prāṇikarmavaśādeṣa paṭo yadvatprasāritaḥ
prāṇikarmakṣayātpunastirobhāvayati | tasminnevākhilaṃ viśvaṃ
saṅkocitapaṭavadvartate | īśādhiṣṭhitāvaraṇaśaktito
rajodriktā mahadākhyā vikṣepaśaktirāsīt | tatpratibimbitaṃ
yattaddhiraṇyagarbhacaitanyamāsīt | sa mahattattvābhimānī
spaṣṭāspaṣṭavapurbhavati |
hiraṇyagarbhādhiṣṭhitavikṣepaśaktitastamodriktāhaṅkārābhidhā
sthūlaśaktirāsīt | tatpratibimbitaṃ
yattadvirāṭcaitanyamāsīt | sa tadabhimānī spaṣṭavapuḥ
sarvasthūlapālako viṣṇuḥ pradhānapuruṣo bhavati |
tasmādātmana ākāśaḥ sambhūtaḥ | ākāśādvāyuḥ | vāyoragniḥ
| agnerāpaḥ | adbhyaḥ pṛthivī | tāni pañca tanmātrāṇi
triguṇāni bhavanti | sraṣṭukāmo jagadyonistamoguṇamadhiṣṭhāya
sūkṣmatanmātrāṇi bhūtāni sthūlīkartuṃ so'kāmayata |
sṛṣṭeḥ parimitāni bhūtānyekamekaṃ dvidhā vidhāya