Passage 1
ContentsText
अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां
सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति । स
होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं
जीवेश्वरस्वरूपं विविच्य कथयामीति
सावधानेनैकाग्रतया श्रूयताम् । ईशः
पञ्चीकृतमहाभूतलेशानादाय
व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् ।
कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः ।
रक्तमूत्रलालास्वेदादिकमवंशाः ।
क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः ।
प्रचारणोत्तारणश्वासादिका वाय्वंशाः । कामक्रोधादयो
व्योमांशाः । एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं
बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं
भवति ॥
अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः
प्राणमसृजत् । प्राणापानव्यानोदानसमानाः प्राणवृत्तयः
। नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः ।
हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि ।
आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् ।
वाक्पाणिपादपायूपास्थास्तद्वृत्तयः ।
वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥
एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत्
। अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः ।
सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः ।
गलवदननाभिहृदयभ्रूमध्यं स्थानम् ।
भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् ।
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।
शब्दस्पर्शरूपरसगन्धास्तद्विषयाः ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो
विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥
अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च
कोशाः । अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं
प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः ।
तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादिपञ्चकं
प्राणमयकोशः । ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः ।
एतत्कोशत्रयं लिङ्गशरीरम् ।
स्वरूपाज्ञानमानन्दमयकोशः । तत्कारणशरीरम् ॥
अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं
प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं
कामकर्मतमांस्यष्टपुरम् ॥
इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय
विश्वत्वमगमत् । विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको
जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम
भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं
प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् । तैजसः
प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ।
ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं
प्रविश्य प्राज्ञत्वमगमत् । प्राज्ञोविच्छिन्नः पारमार्थिकः
सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति ।
अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य
तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः
नेतरयोर्व्यावहारिकप्रातिभासिकयोः ।
अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति
। स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो
जातो मृत इव स्थितो भवति । अथ
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति
॥
तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः
शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति ।
तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य
कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक् च
भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स
सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं
मार्गमाश्रित्य तिष्ठति । करणोपरमे
जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं
स्वप्नावस्था भवति । तत्र विश्व एव
जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य
वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं
स्वयं भुङ्क्ते ॥
चित्तैककरणा सुषुप्त्यवस्था भवति ।
भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा
गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य
श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥
अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ्
आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या
ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी
मरणावस्था भवति । कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि
तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित
अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं
गच्छति । प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं
नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते
नृणां मोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य
चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति । अविचारकृतो
बन्धो विचारान्मोक्षो भवति । तस्मात्सदा विचारयेत् ।
अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते ।
तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो
जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत
इति ॥
Transliteration
atha paiṅgalo yājñavalkyamuvāca sarvalokānāṃ
sṛṣṭisthityantakṛdvibhurīśaḥ kathaṃ jīvatvamagamaditi | sa
hovāca yājñavalkyaḥ sthūlasūkṣmakāraṇadehodbhavapūrvakaṃ
jīveśvarasvarūpaṃ vivicya kathayāmīti
sāvadhānenaikāgratayā śrūyatām | īśaḥ
pañcīkṛtamahābhūtaleśānādāya
vyaṣṭisamaṣṭyātmakasthūlaśarīrāṇi yathākramamakarot |
kapālacarmāntrāsthimāṃsanakhāni pṛthivyaṃśāḥ |
raktamūtralālāsvedādikamabaṃśāḥ |
kṣuttṛṣṇoṣṇamohamaithunādyā agnyaṃśāḥ |
pracāraṇottāraṇaśvāsādikā vāyvaṃśāḥ | kāmakrodhādayo
vyomāṃśāḥ | etatsaṅghātaṃ karmaṇi sañcitaṃ tvagādiyuktaṃ
bālyādyavasthābhimānāspadaṃ bahudoṣāśrayaṃ sthūlaśarīraṃ
bhavati ||
athāpañcīkṛtamahābhūtarajoṃśabhāgatrayasamaṣṭitaḥ
prāṇamasṛjat | prāṇāpānavyānodānasamānāḥ prāṇavṛttayaḥ
| nāgakūrmakṛkaradevadattadhanañjayā upaprāṇāḥ |
hṛdāsananābhikaṇṭhasarvāṅgāni sthānāni |
ākāśādirajoguṇaturīyabhāgena karmendriyamasṛjat |
vākpāṇipādapāyūpasthāstadvṛttayaḥ |
vacanādānagamanavisargānandāstadviṣayāḥ ||
evaṃ bhūtasattvāṃśabhāgatrayasamaṣṭito'ntaḥkaraṇamasṛjat
| antaḥkaraṇamanobuddhicittāhaṅkārāstadvṛttayaḥ |
saṅkalpaniścayasmaraṇābhimānānusandhānāstadviṣayāḥ |
galavadananābhihṛdayabhrūmadhyaṃ sthānam |
bhūtasattvaturīyabhāgena jñānendriyamasṛjat |
śrotratvakcakṣurjihvāghrāṇāstadvṛttayaḥ |
śabdasparśarūparasagandhāstadviṣayāḥ |
digvātārkapraceto'śvivahnīndropendramṛtyukāḥ | candro
viṣṇuścaturvaktraḥ śambhuśca karaṇādhipāḥ ||