Passage 1
ContentsText
अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं
महावाक्यविवरणमनुब्रूहीति । स होवाच
याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं
ब्रह्मास्मीत्यनुसन्धानं कुर्यात् । तत्र पारोक्ष्यशबलः
सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो
जगद्योनिस्तत्पदवाच्यो भवति । स
एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो
भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं
प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति
वाक्यार्थविचारः श्रवणं भवति । एकान्तेन
श्रवणार्थानुसन्धानं मननं भवति ।
श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया
चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय
निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति ।
तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति ।
ताः स्मरणादनुमीयन्ते । इहानादिसंसारे सञ्चिताः
कर्मकोटयोऽनेनैव विलयं यान्ति ।
ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति । ततो
योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले
निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे
समूलोन्मूलिते प्राक्परोक्षमपि
करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं
प्रसूयते । तदा जीवन्मुक्तो भवति ॥
ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं
सोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च
कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि
प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं
चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य
भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे
चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं
पुरुषे क्रमेण विलीयते । विराद्ड्ढिरण्यगर्भेश्वरा
उपाधिविलयात्परमात्मनि लीयन्ते ।
पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः
कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य
सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं
कूटस्थे प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः
स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते । अण्डं ज्ञानाग्निना
दग्धं कारणैः सह परमात्मनि लीनं भवति । ततो ब्राह्मणः
समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततो
मेघापायेंऽशुमानिवात्माविर्भवति ।
Transliteration
atha hainaṃ paiṅgalaḥ papraccha yājñavalkyaṃ
mahāvākyavivaraṇamanubrūhīti | sa hovāca
yājñavalkyastattvamasi tvaṃ tadasi tvaṃ brahmāsyahaṃ
brahmāsmītyanusandhānaṃ kuryāt | tatra pārokṣyaśabalaḥ
sarvajñatvādilakṣaṇo māyopādhiḥ saccidānandalakṣaṇo
jagadyonistatpadavācyo bhavati | sa
evāntaḥkaraṇasambhinnabodho'smatpratyayāvalambanastvampadavācyo
bhavati | parajīvopādhimāyāvidye vihāya tattvaṃpadalakṣyaṃ
pratyagabhinnaṃ brahma | tattvamasītyahaṃ brahmāsmīti
vākyārthavicāraḥ śravaṇaṃ bhavati | ekāntena
śravaṇārthānusandhānaṃ mananaṃ bhavati |
śravaṇamanananirvicikitse'rthe vastunyekatānavattayā
cetaḥsthāpanaṃ nididhyāsanaṃ bhavati | dhyātṛdhyāne vihāya
nivātasthitadīpavaddhyeyaikagocaraṃ cittaṃ samādhirbhavati |
tadānīmātmagocarā vṛttayaḥ samutthitā ajñātā bhavanti |
tāḥ smaraṇādanumīyante | ihānādisaṃsāre sañcitāḥ
karmakoṭayo'nenaiva vilayaṃ yānti |
tatobhyāsapāṭavātsahasraśaḥ sadāmṛtadhārā varṣati | tato
yogavittamāḥ samādhiṃ dharmameghaṃ prāhuḥ | vāsanājāle
niḥśeṣamamunā pravilāpite karmasañcaye puṇyapāpe
samūlonmūlite prākparokṣamapi
karatalāmalakavadvākyamapratibaddhāparokṣasākṣātkāraṃ
prasūyate | tadā jīvanmukto bhavati ||
īśaḥ pañcīkṛtabhūtānāmapañcīkaraṇaṃ kartuṃ
so'kāmayata | brahmāṇḍatadgatalokānkāryarūpāṃśca
kāraṇatvaṃ prāpayitvā tataḥ sūkṣmāṅgaṃ karmendriyāṇi
prāṇāṃśca jñānendriyāṇyantaḥkaraṇacatuṣṭayaṃ
caikīkṛtya sarvāṇi bhautikāni kāraṇe bhūtapañcake saṃyojya
bhūmiṃ jale jalaṃ vahnau vahniṃ vāyau vāyumākāśe