Passage 3.2
ContentsText
अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां
पूजापीठमुच्यते । आदौ षट्कोणम् । तन्मध्ये स्वबीजम् ।
तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं
शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु
षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु ।
तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।
ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया
मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः ।
ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरम्
साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे ।
एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ।
अङ्गैः प्रथमा वृतिः । मध्ये रामम् । वामभागे
सीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले
हनुमदादिद्वितीयावरणम् । घृष्ट्यादितृतीयावरणम् ।
इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधन-
पूर्वकं दशाक्षरादिमन्त्रं जपेत् । ॥
Transliteration
atha daśākṣarādidvātriṃśadakṣarāntānāṃ mantrāṇāṃ
pūjāpīṭhamucyate | ādau ṣaṭkoṇam | tanmadhye svabījam |
tanmadhye sādhyanāmāni | evaṃ kāmabījaveṣṭanam | taṃ
śiṣṭena navārṇena veṣṭanam | ṣaṭkoṇeṣu
ṣaḍaṅgānyagnīśāsuravāyavyapūrvapṛṣṭheṣu |
tatkapoleṣu śrīmāye | koṇāgre krodham | tato vṛttam |
tato'ṣṭadalam | teṣu daleṣu ṣaṭsaṃkhyayā
mālāmanuvarṇān | taddalakapoleṣu ṣoḍaśa svarāḥ |
tato vṛttam | tatparita ādikṣāntam | tadbahirbhūpuram
sāṣṭaśūlāgram | dikṣu vidikṣu nārasiṃhavārāhe |
etanmahāyantram | ādhāraśaktyādivaiṣṇavapīṭham |
aṅgaiḥ prathamā vṛtiḥ | madhye rāmam | vāmabhāge
sītām | tatpurataḥ śārṅgaṃ śaraṃ ca | aṣṭadalamūle
hanumadādidvitīyāvaraṇam | ghṛṣṭyāditṛtīyāvaraṇam |
indrādibhiścaturthī | vajrādibhiḥ pañcamī | etadyantrārādhana-
pūrvakaṃ daśākṣarādimantraṃ japet | ||