Prose 6.2
ContentsText
चक्षुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं च नारायणो मनश्च मन्तव्यं च नरायणो बुद्धिश्च बोद्धव्यं च नारायणोऽहङ्कारश्चाहङ्कर्तव्यं च नारायणश्चित्तं च चेतयितव्यं च नारायणो वाक् च वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः पादौ च गन्तव्यं च नारायणः पायुश्च विसर्जयितव्यं च नारायण उपस्थश्चानन्दयितव्यं च नारायणो धाता विधाता
Transliteration
cakṣuśca draṣṭavyaṃ ca nārāyaṇaḥ śrotraṃ ca śrotavyaṃ ca nārāyaṇo ghrāṇaṃ ca ghrātavyaṃ ca nārāyaṇo jihvā ca rasayitavyaṃ ca nārāyaṇastvak ca sparśayitavyaṃ ca nārāyaṇo manaśca mantavyaṃ ca narāyaṇo buddhiśca boddhavyaṃ ca nārāyaṇo'haṅkāraścāhaṅkartavyaṃ ca nārāyaṇaścittaṃ ca cetayitavyaṃ ca nārāyaṇo vāk ca vaktavyaṃ ca nārāyaṇo hastau cādātavyaṃ ca nārāyaṇaḥ pādau ca gantavyaṃ ca nārāyaṇaḥ pāyuśca visarjayitavyaṃ ca nārāyaṇa upasthaścānandayitavyaṃ ca nārāyaṇo dhātā vidhātā