Mantra 1.11.4
ContentsText
ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् ।
तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु ।
ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् ।
तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः ।
एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् ।
एवमु चैत॑दुपा॒स्यम् ॥ ४॥
Transliteration
ye tatra brāhmaṇāḥ᳚ saṃma̱rśinaḥ | yuktā̭ āyu̱ktāḥ |
alūkṣā̭ dharma̭kāmā̱ḥ syuḥ | yathā tḙ tatra̭ varte̱ran |
tathā tatra̭ varte̱thāḥ | athābhyā᳚khyā̱teṣu |
ye tatra brāhmaṇāḥ᳚ saṃma̱rśinaḥ | yuktā̭ āyu̱ktāḥ |
alūkṣā̭ dharma̭kāmā̱ḥ syuḥ | yathā tḙ teṣṷ varte̱ran |
tathā teṣṷ varte̱thāḥ | eṣa̭ āde̱śaḥ | eṣa ṷpade̱śaḥ |
eṣā vḙdopa̱niṣat | etada̭nuśā̱sanam | evamupā̭sita̱vyam |
evamu caita̭dupā̱syam || 4||