Unnumbered prose after verse 93
ContentsText
अथात्मनिर्णयं व्याख्यास्ये ॥
हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं
कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं
प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं
कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः
स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥
पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं
धर्मे मतिर्भवति ॥
यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य
मतिर्भवति ॥
यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा
द्वेषकोपमतिर्भवति ॥
यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा
पापकर्महिंसामतिर्भवति ॥
यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा
क्रीडाविनोदे मतिर्भवति ॥
यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा
गमनचलनवैराग्यमतिर्भवति ॥
यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार-
मतिर्भवति ॥
यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा
दानादिकृपामतिर्भवति ॥
यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि-
प्रकोपो भवति ॥
यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं
करोति ॥
यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं
कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं
तदा निद्रावस्था भवति ॥
निद्रावस्थामध्ये स्वप्नावस्था भवति ॥
स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता
इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥
श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये
निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा
सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी
बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर-
स्वरूपेण प्राप्तिर्भवति ॥
तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा
पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म-
सम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः
शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः
कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा
सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । यदा
तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति
द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति
पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण
मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥
Transliteration
athātmanirṇayaṃ vyākhyāsye ||
hṛdisthāne aṣṭadalapadmaṃ vartate tanmadhye rekhāvalayaṃ
kṛtvā jīvātmarūpaṃ jyotīrūpamaṇumātraṃ vartate tasminsarvaṃ
pratiṣṭhitaṃ bhavati sarvaṃ jānāti sarvaṃ karoti sarvametaccaritamahaṃ
kartā'haṃ bhoktā sukhī duḥkhī kāṇaḥ khañjo badhiro mūkaḥ kṛśaḥ
sthūlo'nena prakāreṇa svatantravādena vartate ||
pūrvadale viśramate pūrvaṃ dalaṃ śvetavarṇaṃ tadā bhaktipuraḥsaraṃ
dharme matirbhavati ||
yadā'gneyadale viśramate tadāgneyadalaṃ raktavarṇaṃ tadā nidrālasya
matirbhavati ||
yadā dakṣiṇadale viśramate taddakṣiṇadalaṃ kṛṣṇavarṇaṃ tadā
dveṣakopamatirbhavati ||
yadā nairṛtadale viśramate tannairṛtadalaṃ nīlavarṇaṃ tadā
pāpakarmahiṃsāmatirbhavati ||
yadā paścimadale viśramate tatpaścimadalaṃ sphaṭikavarṇaṃ tadā
krīḍāvinode matirbhavati ||
yadā vāyavyadale viśramate vāyavyadalaṃ māṇikyavarṇaṃ tadā
gamanacalanavairāgyamatirbhavati ||
yadottaradale viśramate taduttaradalaṃ pītavarṇaṃ tadā sukhaśṛṅgāra-
matirbhavati ||
yadeśānadale viśramate tadīśānadalaṃ vaiḍūryavarṇaṃ tadā
dānādikṛpāmatirbhavati ||
yadā sandhisandhiṣu matirbhavati tadā vātapittaśleṣmamahāvyādhi-
prakopo bhavati ||
yadā madhye tiṣṭhati tadā sarvaṃ jānāti gāyati nṛtyati paṭhatyānandaṃ
karoti ||
yadā netraśramo bhavati śramanirbharaṇārthaṃ prathamarekhāvalayaṃ
kṛtvā madhye nimajjanaṃ kurute prathamarekhābandhūkapuṣpavarṇaṃ
tadā nidrāvasthā bhavati ||